।। तारा प्रत्य़ंगिरा कवचम् स्त्रोत।।

इस तारा-प्रत्यंगिरा कवच पहनकर ११ बार यह तारा-प्रत्यंगिरा कवच स्त्रोत का पाठ कर विशेष कार्य के लिये जाये तो कार्य मे सफलता मिलती है तथा शत्रु अपना प्रभाव नही डाल पाता।

।। ॐ प्रत्यंगिराये नमः ।।

ईश्वर उवाच –

ॐ तारायाः स्तम्भिनी देवी मोहिनी क्षोभिनी तथा ।

हस्तिनी भ्रामिनी रौद्री संहारण्यापि तारिणी ।

शक्तयोहष्टौ क्रमादेता शत्रुपक्षे नियोजितः ।

धारिता साधकेन्द्रेण सर्वशत्रु निवारिणी ।

ॐ स्तम्भिनी स्त्रें स्त्रें मम शत्रुन् स्तम्भय स्तम्भय ।

ॐ क्षोभिनी स्त्रें स्त्रें मम शत्रुन् क्षोभय क्षोभय ।

ॐ मोहिनी स्त्रें स्त्रें मम शत्रुन् मोहय मोहय ।

ॐ जृम्भिनी स्त्रें स्त्रें मम शत्रुन् जृम्भय जृम्भय ।

ॐ भ्रामिनी स्त्रें स्त्रें मम शत्रुन् भ्रामय भ्रामय ।

ॐ रौद्री स्त्रें स्त्रें मम शत्रुन् सन्तापय सन्तापय ।

ॐ संहारिणी स्त्रें स्त्रें मम शत्रुन् संहारय संहारय ।

ॐ तारिणी स्त्रें स्त्रें सर्व्वपद्भ्यः सर्व्वभूतेभ्यः सर्व्वत्र

रक्ष रक्ष मां स्वाहा ।।

य इमां धारयेत् विध्यां त्रिसन्ध्यं वापि यः पठेत् ।

स दुःखं दूरतस्त्यक्त्वा ह्यन्याच्छत्रुन् न संशयः ।

रणे राजकुले दुर्गे महाभये विपत्तिषु ।

विध्या प्रत्य़ञ्गिरा ह्येषा सर्व्वतो रक्षयेन्नरं ।।

अनया विध्या रक्षां कृत्वा यस्तु पठेत् सुधी ।

मन्त्राक्षरमपि ध्यायन् चिन्तयेत् नीलसरस्वतीं ।

अचिरे नैव तस्यासन् करस्था सर्व्वसिद्ध्यः

ॐ ह्रीं उग्रतारायै नीलसरस्वत्यै नमः ।।

इमं स्तवं धीयानो नित्यं धारयेन्नरः ।

सर्व्वतः सुखमाप्नोति सर्व्वत्रजयमाप्नुयात् ।

नक्कापि भयमाप्नोति सर्व्वत्रसुखमाप्नुयात् ।।

इति रूद्रयामले श्रीमदुग्रताराया प्रत्य़ञ्गिरा कवचम् समाप्तम् ।।